(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
7.23. अध्यायः 023
Mahabharata - Drona Parva - Chapter Topics


Mahabharata - Drona Parva - Chapter Text

धृतराष्ट्र उवाच। 7-23-0x(4316)(45675)
सर्वेषामेव मे ब्रूहि रथचिह्वानि सञ्जय।
ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः।
`तान्यहं श्रोतुमिच्छामि विस्तरेण पृथक्पृथक्॥ 7-23-1(45676)
दूयते मे मनस्तात द्रोणं प्रति परन्तपम्।
श्रुत्वा भीष्मस्य निधनं तद्वदेतद्भविष्यति'॥ 7-23-2(45677)
सञ्जय उवाच। 7-23-3x(4317)
ऋक्षवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम्।
रजताश्वस्ततः शूरः शैनेयः सन्न्यवर्तत॥ 7-23-3(45678)
सारङ्गाश्वो युधामन्युः स्वयं प्रत्वरयन्हयान्।
पर्यवर्तत दुर्धर्षः क्रुद्धो द्रोणरथं प्रति॥ 7-23-4(45679)
पारावतसवर्णैस्तु हेमभाण्डैर्महाजवैः।
पाञ्चालराजस्य सुतो धृष्टद्युम्नो न्यवर्तत॥ 7-23-5(45680)
पितरं तु परिप्रेप्सुः क्षत्रधर्मा यतव्रतः।
सिद्धिं चास्य परां काङ्क्षञ्शोणाश्वः सन्न्यवर्तत॥ 7-23-6(45681)
पद्मपत्रनिभांश्चाश्वान्मल्लिकाक्षान्स्वलङ्कृतान्।
शैखण़्डिः क्षत्रदेवस्तु स्वयं प्रत्वरयन्ययौ॥ 7-23-7(45682)
दर्शनीयास्तु काम्भोजाः शुकपत्रपरिच्छदाः।
वहन्तो नकुलं शीघ्रं तावकानाभिदुद्रुवुः॥ 7-23-8(45683)
कृष्णास्तु मेघसङ्काशा अवहन्नुत्तमौजसम्।
दुर्धर्षायाभिसन्धाय क्रुद्धं युद्धाय भारत॥ 7-23-9(45684)
तथा तित्तिरिकल्माषा हया वातसमा जवे।
अवहंस्तुमुले युद्धे सहदेवमुदायुधम्॥ 7-23-10(45685)
दन्तवर्णास्तु राजानं कालवाला युधिष्ठिरम्।
भीमवेगा नरव्याघ्रमवहन्वातरंहसः॥ 7-23-11(45686)
हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे।
अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम्॥ 7-23-12(45687)
राज्ञस्त्वनन्तरो राजा पाञ्चाल्यो द्रुपदोऽभवत्।
जातरूपमयच्छत्रः सर्वैस्तैरभिरक्षितः॥ 7-23-13(45688)
ललामैर्हरिभिर्युक्तः सर्वशब्दक्षमैर्युधि।
राज्ञं मध्ये महेष्वासः शान्तभीरभ्यवर्तत॥ 7-23-14(45689)
तं विराटोऽन्वयाच्छीघ्रं सह सर्वैर्महारथैः।
केकयाश्च सिखण्डी च धृष्टकेतुस्तथैव च।
स्वैः स्वैः सैन्यैः परिवृता मात्स्यराजानमन्वयुः॥ 7-23-15(45690)
तं तु पाटलिपुष्पाणां समवर्णा हयोत्तमाः।
वहमाना व्यराजन्त मास्त्यस्यामित्रघातिनः॥ 7-23-16(45691)
हरिद्रासमवर्णास्तु जवना हेममालिनः।
पुत्रं विराटराजस्य सत्वरं समुदावहन्॥ 7-23-17(45692)
इन्द्रगोपकवर्णैश्च भ्रातरः पञ्च केकयाः।
जातरूपसमाभासाः सर्वे लोहितकध्वजाः॥ 7-23-18(45693)
ते हेममालिनः शूराः सर्वे युद्धविशारदाः।
वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः॥ 7-23-19(45694)
आमपात्रनिकाशास्तु पाञ्चाल्यममितौजसम्।
दत्तास्तुम्बुरुणा दिव्याः शिखण्डिनमुदावहन्॥ 7-23-20(45695)
तथा द्वादशसाहस्राः पाञ्चालानां महारथाः।
तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः॥ 7-23-21(45696)
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष।
आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः॥ 7-23-22(45697)
धृष्टकेतुस्तु चेदीनामृषभोऽतिबलोदितः।
काम्भोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः॥ 7-23-23(45698)
बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः।
पलालधूमसङ्काशाः सैन्धवाः शीघ्रमावहन्॥ 7-23-24(45699)
मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलङ्कृताः।
शूरं शिखण्डिनः पुत्रमृक्षदेवमुदावहन्॥ 7-23-25(45700)
रुक्मभाण्डप्रतिच्छन्नाः कौशेयसदृशा हयाः।
क्षमावन्तोऽवहन्सङ्ख्ये सेनाबिन्दुमरिन्दमम्॥ 7-23-26(45701)
युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः।
काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम्॥ 7-23-27(45702)
श्वेतास्तु प्रतिविन्ध्यन्तं कृष्णग्रीवा मनोजवाः।
यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन्॥ 7-23-28(45703)
सुतसोमं तु योधाग्र्यं भीमपुत्रं महाबलम्।
माषपुष्पसवर्णास्तमवहन्वाजिनो रणे॥ 7-23-29(45704)
सहस्रसोमप्रतिमो बभूव पुरे कुरूणामुदयेन्दुनाम्नि।
तस्मिञ्जातः सोमसंक्रन्दमध्ये यस्मात्तस्मात्सुतसोमोऽभवत्सः॥ 7-23-30(45705)
नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः।
आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन्॥ 7-23-31(45706)
काञ्चनापिहितैर्योक्त्रैर्मयूरग्रीवसन्निभाः।
द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमाहवे॥ 7-23-32(45707)
श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः।
ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः॥ 7-23-33(45708)
यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे।
अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे॥ 7-23-34(45709)
एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः।
तं बृहन्तो महाकाया युयुत्सुमवहन्रणे।
`ये तु पुष्करसारस्य तुल्यवर्णा हयोत्तमाः'॥ 7-23-35(45710)
पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम्।
ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलङ्कृताः॥ 7-23-36(45711)
कुमारं शितिपादास्तु रुक्मचित्रैरुरश्छदैः।
सौचित्तिमवहद्युद्धे यन्तुः प्रेष्यकरा हयाः॥ 7-23-37(45712)
रुक्मपीठावकीर्णास्तु कौशेयसदृशा हयाः।
सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन्॥ 7-23-38(45713)
रुक्ममालाधराः शूरा हेमपृष्ठाः स्वलङ्कृताः।
काशिराजं नरश्रेष्ठं श्लाघनीयमुदावहन्॥ 7-23-39(45714)
अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम्।
तं सत्यधृतिमायान्तमरूणाः समुपावहन्॥ 7-23-40(45715)
यः स पाञ्चालसेनानीद्रोणमंशमकल्पयत्।
पारावतसवर्णास्तं धृष्टद्युम्नमुदावहन्॥ 7-23-41(45716)
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः।
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः॥ 7-23-42(45717)
युक्तैः परमकाम्भोजैर्जवनैर्हेममालिभिः।
भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः॥ 7-23-43(45718)
प्रभद्रकास्तु काम्भोजाः षट्सहस्राण्युदायुधाः।
नानावर्णैर्हयैः श्रेष्ठैर्हेमवर्णरथध्वजाः॥ 7-23-44(45719)
शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः।
समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः॥ 7-23-45(45720)
बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः।
ऊहुरम्लानमनसश्चेकितानं हयोत्तमाः॥ 7-23-46(45721)
इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः।
आयात्सदश्वैः पुरुजिन्मातुलः सव्यसाचिनः॥ 7-23-47(45722)
अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव।
राजानं रोचमानं ते हयाः सङ्ख्ये समावहन्॥ 7-23-48(45723)
कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः।
जारासन्धिं हयाः श्रेष्ठाः सहदेवमुदावहन्॥ 7-23-49(45724)
ये तु पुष्करनालस्य समवर्णा हयोत्तमाः।
जवे श्येनसमाश्चित्राः सुदामानमुदावहन्॥ 7-23-50(45725)
शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः।
पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन्॥ 7-23-51(45726)
पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः।
तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः॥ 7-23-52(45727)
माषवर्णाश्च जवना बृहन्तो हेममालिनः।
दधिपृष्ठाश्चित्रमुखाः पाञ्चाल्यमवहन्द्रुतम्॥ 7-23-53(45728)
शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः।
पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन्॥ 7-23-54(45729)
रासभारुणवर्णाभाः पृष्ठतो मूषिकप्रभाः।
वल्गन्त इव संयत्ता व्याघ्रदत्तमुदावहन्॥ 7-23-55(45730)
हरयः कालकाश्चित्राश्चित्रमाल्यविभूषिताः।
सुधन्वानं नरव्याघ्रं पाञ्चाल्यं समुदावहन्॥ 7-23-56(45731)
इन्द्राशनिसमस्पर्शा इन्द्रगोपकसन्निभाः।
काये चित्रान्तराश्चित्राश्चित्रायुधमुदावहन्॥ 7-23-57(45732)
बिभ्रतो हेपमालास्तु चक्रवाकोदरा हयाः।
कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन्॥ 7-23-58(45733)
शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः।
युद्धे सत्यधृतिं क्षेमिमवहन्प्रांशवः शुभाः॥ 7-23-59(45734)
एकवर्णेन सर्वेण ध्वजेन कवचेन च।
अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत॥ 7-23-60(45735)
समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम्।
अश्वाः शशाङ्कसदृशाश्चन्द्रसेनमुदावहन्॥ 7-23-61(45736)
नीलोत्पलसवर्णास्तु तपनीयविभूषिताः।
शैब्यं चित्ररथं सङ्ख्ये चित्रमाल्याऽवहन्हयाः॥ 7-23-62(45737)
कलायपुष्पवर्णास्तु श्वेतलोहितराजयः।
रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम्॥ 7-23-63(45738)
यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम्।
तं पटच्चरहन्तारं शुकवर्णाऽवहन्हयाः॥ 7-23-64(45739)
चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम्।
ऊहुः किंशुकपुष्पाणां समवर्णा हयोत्तमाः॥ 7-23-65(45740)
एकवर्णेन सर्वेण ध्वजेन कवचेन च।
धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत॥ 7-23-66(45741)
नानारूपै रत्नचिह्नैर्वरूथरथकार्मुकैः।
वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत॥ 7-23-67(45742)
ये तु पुष्करवर्णस्य तुल्यवर्णा हयोत्तमाः।
ते रोचमानस्य सुतं हेमवर्णमुदावहन्॥ 7-23-68(45743)
योधाश्च भद्रकाराश्च शरदण्डानुदण्डयः।
श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुं हयाऽवहन्॥ 7-23-69(45744)
केशवे न हते सङ्ख्ये पितर्यथ नराधिपे।
भिन्ने कपाटे पाण़्डानां विद्रुतेषु च बन्धुषु॥ 7-23-70(45745)
भीष्मादवाप्य चास्त्राणि द्रोणाद्रामात्कृपात्तथा।
अस्त्रैः समत्वं सम्प्राप्य रुक्मिकर्णार्जुनाच्युतैः॥ 7-23-71(45746)
इयेष द्वारकां हन्तुं कृत्स्नां जेतुं च मेदिनीम्।
निवारितस्ततः प्राज्ञैः सुहृद्भिर्हितकाम्यया॥ 7-23-72(45747)
वैरानुबन्धमुत्सज्य स्वराज्यमनुशास्ति यः।
स सागरध्वजः पाण्ड्यश्चन्द्ररश्मिनिभैर्हयैः॥ 7-23-73(45748)
वैडूर्यजालसञ्छन्नैर्वीर्यद्रविणमाश्रितः।
दिव्यं विस्फारयंश्चापं द्रोणमभ्यद्रवद्बली॥ 7-23-74(45749)
आरकूटकवर्णाश्च हयाः पाण्ड्यानुयायिनाम्।
अवहन्रथमुख्यानामयुतानि चतुर्दश॥ 7-23-75(45750)
नानावर्णेन रूपेण नानाकृतिमुखा हयाः।
रथचक्रध्वजं वीरं घटोत्कचमुदावहन्॥ 7-23-76(45751)
भारतानां समेतानामुत्सृज्यैको मतानि यः।
गतो युधिष्ठिरं भक्त्या त्यक्त्वा सर्वमभीप्सितम्॥ 7-23-77(45752)
लोहिताक्षं महाबाहुं युयुत्सुं मकरध्वजम्।
महासत्वा महाकायाः सौवर्णस्यन्दने स्थितम्॥ 7-23-78(45753)
सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम्।
राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः॥ 7-23-79(45754)
वर्णैरुच्चावचैरन्यैः सदश्वानां प्रभद्रकाः।
सन्न्यवर्तन्त युद्धाय बहवो देवरूपिणः॥ 7-23-80(45755)
ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः।
प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः॥ 7-23-81(45756)
अत्यरोचत तान्सर्वान्धृष्ठद्युम्नः समागतान्।
सर्वाण्यति च सैन्यानि भारद्वाजो व्यरोचत॥ 7-23-82(45757)
अतीव शुशुभे तस्य ध्वजः कृष्णाजिनोत्तरः।
कमण्डलुर्महाराज जातरूपमयः शुभः॥ 7-23-83(45758)
ध्वजं तु भीमसेनस्य वै2डूर्यमणिलोचनम्।
भ्राजमानं महासिंहं राजन्तं दृष्टवानहम्॥ 7-23-84(45759)
ध्वजं तु कुरुराजस्य पाण्डवस्य महौजसः।
दृष्टवानस्मि सौवर्णं सोमं ग्रहगणान्वितम्॥ 7-23-85(45760)
मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ।
यन्त्रेणाहन्यमानौ च सुस्वनौ हर्षवर्धनौ॥ 7-23-86(45761)
शरभं पृष्ठसौवर्णं नकुलस्य महाध्वजम्।
अपश्याम रथेत्युग्रं भीषयाणमवस्थितम्॥ 7-23-87(45762)
हंसस्तु राजतः श्रीमान्ध्वजे घण्टापताकवान्।
सहदेवस्य दुर्धर्षो द्विषतां शोकवर्धनः॥ 7-23-88(45763)
पञ्चानां द्रौपदेयानां प्रतिमाध्वजभूषणम्।
धर्ममारुतशक्राणामश्विनोश्च महात्मनोः॥ 7-23-89(45764)
अभिमन्योः कुमारस्य शार्ङ्गपक्षी हिरण्मयः।
रथे ध्वजवरो राजंस्तप्तचामीकरोज्ज्वलः॥ 7-23-90(45765)
घटोत्कचस्य राजेन्द्र ध्वजे गृध्रो व्यरोचत।
अश्वाश्च कामगास्तस्य रावणस्य पुरा यथा॥ 7-23-91(45766)
माहेन्द्रं च धनुर्दिव्यं धर्मराजे युधिष्ठिरे।
वायव्यं भीमसेनस्य धनुर्दिव्यमभून्नृप॥ 7-23-92(45767)
त्रैलोक्यरक्षणार्थाय ब्रह्मणा सृष्टमायुधम्।
तद्दिव्यमजरं चैव फाल्गुनार्थाय वै धनुः॥ 7-23-93(45768)
वैष्णवं नकुलायाथ सहदेवाय चाश्चिजम्।
घटोत्कचाय पौलस्त्यं धनुर्दिव्यं भयामकम्॥ 7-23-94(45769)
रौद्रमाग्नेयकौबेरं याम्यं गिरिशमेव च।
पञ्चानां द्रौपदेयानां धनूरत्नानि भारत॥ 7-23-95(45770)
रौद्रं धनुर्वरं श्रेष्ठं लेभे यद्रोहिणीसुतः।
तत्तुष्टः प्रददौ रामः सौभद्राय महात्मने॥ 7-23-96(45771)
एते चान्ये च बहवो ध्वजा हेमविभूषिताः।
तत्रादृश्यन्त शूराणां द्विषतां शोकवर्धनाः॥ 7-23-97(45772)
तदभूद्ध्वजसम्बाधमकापुरुषसेवितम्।
द्रोणानीकं महाराज पटे चित्रमिवार्पितम्॥ 7-23-98(45773)
शुश्रुवुनार्मगोत्राणि वीराणां संयुगे तदा।
द्रोणमाद्रवतां राजन्स्वयंवर इवाहवे॥ ॥ 7-23-99(45774)

इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे त्रयोविंशोऽध्यायः॥ 23 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-23-1 रथचिह्नानि हयान् ध्वजांश्चेत्यर्थः॥ 5-23-3 व्यायच्छन्तं निवर्तमानम्॥ 5-23-4 सितनीलारुणो वर्णः सारङ्गसदृशश्च सः॥ 5-23-5 पारावतकपोताभः सितनीलसमन्वयात्॥ 5-23-6 शोणः कोकनदच्छविः॥ 5-23-7 मल्लिकाक्षान्निर्मलेक्षणान्॥ 5-23-8 महाललाटजधनस्कन्धवक्षोजवा हयाः। दीर्घग्रीवायता हस्वमुष्काः काम्भोजकाः स्मृताः। शुकपत्रपरिच्छदाः शुकपत्राभरोमाणः॥ 5-23-11 दन्तवर्णः गजदन्तगौराः॥ 5-23-14 श्वेतं ललाटमध्यश्थं तारारूपं हयस्य यत्। ललामं चापि तत्प्राहुर्ललामोऽश्वस्तदन्वितः। सकेसराणि रोमाणि सुवर्णभानि यस्य तु। हरिःस स वर्णतोऽश्वस्तु पीतकौशेयसन्निभः॥ 5-23-16 पाटलिपुष्पाणां समवर्णाः श्वेतरक्ताः॥ 5-23-17 विराटराजस्य पुत्र उत्तरम्॥ 5-23-20 आमपात्रनिकाशाः मलिनश्वेताः॥ 5-23-26 क्षमावन्तो विनीताः॥ 5-23-28 प्रेष्यकराः इच्छानुविधायिनः॥ 5-23-30 सहस्रसोमप्रतिमः सोमसहस्रसमः सौम्यतम इत्यर्थः। तस्मिन् उदयेन्दुनाम्नि उदयेन्दुपर्याये पुरे शक्रप्रस्थ एव सोमसङ्क्रन्दः सोमाभिषवणं तस्य मध्ये। तमधिकृत्य तत्फेनेनेत्यर्थस्तस्माद्धोतोः॥ 5-23-31 शालपुष्पनिभाः रक्तपीताः॥ 5-23-32 योक्त्रैराबन्धैः। मयूरग्रीवो मरकतविशेषः॥ 5-23-34 पिशङ्गाः कपिलाः॥ 5-23-36 पलालकाण्डो निष्फलव्रीहिदण्डस्तद्वर्णाः॥ 5-23-37 रुक्मपीठेन रुक्मवर्णेन पीठेन पृष्ठेनावकीर्णा व्याप्ताः॥ 5-23-40 अरुणा अव्यक्तरागाः॥ 5-23-41 धृष्टद्युम्नस्य पुनर्वचनं द्रोणहन्तृत्वदृढीकरणार्थम्॥ 5-23-46 बभ्रुकौशेयवर्णाः पिङ्गगौराः ॥ 5-23-47 इन्द्रायुधसवर्णैंस्त्रिवर्णैः॥ 5-23-48 अन्तरिक्षसवर्णा नीलाः ॥ 5-23-49 कर्बुराश्चित्राः॥ 5-23-53 माषवर्णाः मलिनश्यामाः॥ 5-23-54 भद्रकाः शोभनशिरसः। शरकाण्डनिभाः सितगौराः॥ 5-23-55 रासभारुणवर्णाभा अरुणमलिनाः। मूषिकप्रभाः मलिनश्वेताः॥ 5-23-56 कालकाः कृष्णमस्तकाः॥ 5-23-57 चित्रान्तरा विचित्रावकाशाः। चित्रा अद्भुतदर्शनाः॥ 5-23-58 चक्रवाकोदरा ईषच्छ्वेताः॥ 5-23-63 कलायपुष्पवर्णाः मिश्रश्यामाः॥ 5-23-64 पटच्चराणामसुरविशेषाणां हन्तारं समुद्राधिपम्॥ 5-23-69 योधा युद्धक्षमाः। भद्रकाराः शोभनक्रियाः। शरदण्डः शरप्रकाण्ड इव अनुदण्डिः पृष्ठवंशो येषाम्। सितगौरपृष्ठा इत्यर्थः॥ 5-23-70 कपाटे नगरविशेषे॥ 5-23-75 आटरूषकवर्णाभाः इति झ पाठः। तत्र आटरूषकस्य वासकस्य कुसुमं तद्वर्णसदृशवर्णा इत्यर्थः॥ 5-23-78 हया अवहन् इति पूर्वस्मादनुकृष्यते॥ 5-23-79 सुवर्णवर्णा इति पूर्वोत्तरान्वयि॥ 5-23-86 नन्दोपनन्दकौ नाम्ना॥ 5-23-23 त्रयोविंशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.